Wednesday, September 22, 2010

ಸುಭಾಷಿತಗಳು-2


|||सुभाषितानि-2|||

कीटोऽपि सुमनस्सङ्गात्
आरोहति सतां शिरः |
अश्मापि याति देवत्वम्
महद्भिः सुप्रतिष्ठितः ||1||

महान्तो न विरोद्दव्याः
दुर्जया हि महाजनाः |
स्फुरन्तमपि नागेन्द्रम्
भक्षयन्ति पिपीलिकाः ||2||

असहायः पुमानेकः
कार्यान्तं नाधिगच्छति |
तुषेणापि विनिर्मुक्तः
तण्डुलो न प्ररोहति ||3||

परोपकारशून्यस्य
धिङ् मनुष्यस्य जीवितम् |
जीवन्तु पशवो येषाम्
चर्माप्युपकरिष्यति ||4||

विद्या विवादाय धनं मदाय
शक्तिः परेषां परिपीडनाय |
खलस्य, साधोः विपरीतमेतत्
ज्ञानाय, दानाय च रक्षणाय ||5||

वरं वनं व्याघ्रगजादिसेवितम्
जनेन हीनं बहुकण्टकावृतम् |
तृणानि शय्या परिधानवल्कलम्
न बन्धुमध्ये धनहीनजीवितम् ||6||

वने रणे शत्रुजलाग्निमध्ये
महार्णवे पर्वतमस्तके वा
सुप्तं प्रमत्तं विशमस्थितं वा
रक्षन्ति पुण्यानि पुराकृतानि ||7||

मनसि वचसि काये पुण्यपीयूषपूर्णाः
त्रिभुवनमुपकारश्रेणिभिः प्रीणयन्तः |
परगुणपरमाणून् पर्वतीकृत्य नित्यम्
निजहृदि विकसन्तः सन्ति सन्तः कियन्तः ||8||

-भर्तृहरिः


2 Comments:

surii said...

ಪ್ರಸನ್ನ ನಿಮ್ಮ ಲೇಖನಗಳನ್ನು ನನ್ನ ಬ್ಲಾಗ್ ನಲ್ಲಿ ಪ್ರಕಟಿಸಿದ್ದೇನೆ,
ಹೆಚ್ಚಿನ ಜನರಿಗೆ ತಿಳಿಯಲಿ ಎಂದು
http://shikaripura.blogspot.com/

ಪ್ರಸನ್ನ ಶಂಕರಪುರ said...

ಸೂಕ್ತ ಕ್ರೆಡಿಟ್ ಹಾಗೂ ಇಲ್ಲಿಗೊಂದು ಲಿಂಕ್ ಕೊಡುವುದಾದರೆ ಯಾರು ಬೇಕಾದರೂ ನನ್ನ ಬರಹಗಳನ್ನು ಉಪಯೋಗಿಸಿಕೊಳ್ಳಬಹುದು. ಆದರೆ ವಾಣಿಜ್ಯೋದ್ದೇಶಗಳಿಗೆ ಪೂರ್ವಾನುಮತಿ ಅಗತ್ಯ.

-ಪ್ರಸನ್ನ.ಎಸ್.ಪಿ

Post a Comment