Sunday, September 19, 2010

ಸುಭಾಷಿತಗಳು-1

|||सुभाषितानि-1|||

पृथिव्यां त्रीणि रत्नानि
जलमन्नं सुभाषितम् |
मूढैः पाषाणखण्डेषु
रत्नसंಜ್ಞಾ विधीयते ||1||

प्रियवाक्यप्रदानेन
सर्वे तुष्यन्ति जन्तवः |
तस्मात्तदेव वक्तव्यं
वचने का दरिद्रता ||2||

विहाय पौरुषं यो हि
दैवमेवावलंबते |
प्रासादसिम्हवत्तस्य
मूर्ध्नि तिष्टन्ति वायसाः ||3||

श्लोकस्तु श्लोकतां याति
यत्र तिष्टन्ति पण्डिताः |
लकारो लुप्यते तत्र
यत्र तिष्टन्त्यपण्डिताः ||4||

शिरसि धार्यमाणोऽपि
सोमः सोमेन शम्भुना |
तथापि कृशतां याति
कष्टः खलु पराश्रयः ||5||

दृष्टिपूतं न्यसेत्पादं
वस्त्रपूतं विबेज्जलम् |
सत्यपूतां वदेद्वाणीं
मनः पूतं समाचरेत् ||6||

निर्वनो वध्यते व्याघ्रः
निर्व्याघ्रं चिध्यते वनम् |
तस्माद्व्याघ्रो वनं रक्षेत्
वनं व्याघ्रं च पालयेत् ||7||

मक्षिकाः व्रणमिच्छन्ति
धनामिच्छन्ति पार्थिवाः |
नीचाः कलहमिच्छन्ति
शान्तिमिच्छन्ति साधवाः ||8||

काकः कृष्णः पिकः कृष्णः
को भेदः पिककाकयोः |
वसन्तसमये प्राप्ते
काकः काकः पिकः पिकः ||9||

पादपानां भयं वातः
पद्मानां शिशिरो भयम् |
पर्वतानां भयं वज्रः
साधूनां दुर्जनो भयम् ||10||

-भर्तृहरिः

2 Comments:

Post a Comment